|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.34. अध्यायः 034
Mahabharata - Drona Parva - Chapter Topics
द्रोणेन पद्मव्यूहरचना॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-34-0x(4338)(46250)
स्थिरो भव महाराज शोकं धारय दुर्धरम्।
महान्तं बन्धुनाशं ते कथयिष्यामि तच्छृशु॥ 7-34-1(46251)
पद्मव्यूहो महाराज आचार्येणाभिकल्पितः।
तत्र पद्मोपमाः सर्वे राजानो विनिवेशिताः॥ 7-34-2(46252)
कुमारा राजलोकस्य निक्षिप्ताः केसरोपामाः।
कर्णिकास्थो महाराज तस्य दुर्योधनोऽभवत्॥ 7-34-3(46253)
कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः।
रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः॥ 7-34-4(46254)
सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः।
चन्दनागुरुदिग्धाङ्गाः स्रग्विणः सूक्ष्मवाससः॥ 7-34-5(46255)
सहिताः पर्यधावन्त कार्ष्णि प्रतियुयुत्सवः।
तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम्॥ 7-34-6(46256)
पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम्।
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः॥ 7-34-7(46257)
अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः।
दुर्योधनस्तु राजेन्द्र सैन्यमध्ये व्यवस्थितः॥ 7-34-8(46258)
कर्णदुःशासनकृपैर्वृतो राजा महारथैः।
देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः॥ 7-34-9(46259)
चामरव्यजनाक्षेपैरुदयन्निव भास्करः।
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थित नायकः॥ 7-34-10(46260)
सिन्धुराजस्तथाऽतिष्ठच्छ्रीमान्मेरुरिवाचलः।
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः॥ 7-34-11(46261)
सुतास्तव महाराज त्रिंशत्त्रिदशसन्निभाः।
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा॥ 7-34-12(46262)
पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः।
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्।
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्॥ ॥ 7-34-13(46263)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे चतुस्त्रिंशोऽध्यायः॥ 34 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-34-2 चक्रव्यूह इति झ.पाठः॥ 5-34-10 प्रमुखेऽग्रे। सैन्यस्य नायको द्रोणः। अवस्थितेतिच्छन्दोनुरोधाद्विसर्गलोपः॥ 5-34-34 चतुस्त्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|